अर्ह पूजायाम्, अस्माद् धातोः कर्मण्युपपदे अच्प्रत्ययओ भवति। अणो ऽपवादः। स्त्रीलिङ्गे विशेषः। पूजार्हा। गन्धार्ह। मालार्हा।
"{स्त्रीलिङ्गे इति मूलपाठः} स्त्रियां विशेषः" इति। अणि हि सति ङीब्भवति, अचि तु सति टाप्॥
अर्हः। अणोऽपवाद इति। यद्यपि अणि अचि च पूजार्हरूपे न विशेषः, अदुपधत्वाऽभावेन वृद्धेरप्रसक्तेः, तथापि स्त्रियामण्णन्तत्वे ङीप्स्यात्, तन्निवृत्तये अज्विधिः। तदाह-- पूजार्हेति।